प्राकृत-धर्मान्-आश्रयम् अप्राकृत-निखिल-धर्म-रूपम्-इति ।
निगम-प्रतिपाद्यम् यत्-तच्-शुद्धं साकृति स्थौमि ॥ १ ॥
प्राकृतधर्मानाश्रयम् अप्राकृतनिखिलधर्मरूपमिति ।
निगमप्रतिपाद्यं यत्तच्छुद्धं साकृति स्तौमि ॥ १ ॥
कलिकाल-तमः-छन्न दृष्टित्वात्-विदुषाम्-अपि ।
संप्रत्य-अविषयः-तस्य माहात्म्यं समभूत् भुवि ॥ २ ॥
कलिकालतमश्चन्न दृष्टित्वाद्विदुषामपि ।
संप्रत्यविषयस्तस्य माहात्म्यं समभूद्भुवि ॥ २ ॥
दयया निज-माहात्म्यम् करिष्यन् प्रकटम् हरिः ।
वाण्या यदा तदा स्वा-स्यं प्रादुर्भूतम् चकार हि ॥ ३ ॥
दयया निजमाहात्म्यं करिष्यन् प्रकटं हरिः ।
वाण्या यदा तदा स्वास्यं प्रादुर्भूतं चकार हि ॥ ३ ॥
तदुक्तम्-अपि दुर्बोधम् सुबोधम् स्यात्-यथा तथा ।
तन्-नामाष्टोत्तर-शतम् प्रवक्ष्यामि-अखिलाघ-हृत् ॥ ४ ॥
तदुक्तमपि दुर्बोधं सुबोधं स्याद्यथा तथा ।
तन्नामाष्टोत्तरशतं प्रवक्ष्याम्यखिलाघहृत् ॥ ४ ॥
ऋषिर्-अग्नि-कुमारः-तु नाम्नां छन्दो जगत्य्-असौ ।
श्री-कृष्ण-आस्यं देवता च बीजं कारुणिकः प्रभुः ॥ ५ ॥
ऋषिरग्निकुमारस्तु नाम्नां छंदो जगत्यसौ ।
श्रीकृष्णास्यं देवता च बीजं कारुणिकः प्रभुः ॥ ५ ॥
विनियोगः भक्ति-योगः प्रतिबन्ध-विनाशने ।
कृष्ण-अधर-अमृत-आस्वाद सिद्धिः-अत्र न संशयः ॥ ६ ॥
विनियोगो भक्तियोगः प्रतिबन्धविनाशने ।
कृष्णाधरामृतास्वाद सिद्धिरत्र न संशयः ॥ ६ ॥
आनन्दः परमानन्दः श्रीकृष्णास्यम् कृपानिधिः ।
दैवोद्धार-प्रयत्नात्म स्मृति-मात्र-आर्ति-नाशनः ॥ ७ ॥
आनन्दः परमानन्दः श्रीकृष्णास्यं कृपानिधिः ।
दैवोद्धारप्रयत्नात्मा स्मृतिमात्रार्तिनाशनः ॥ ७ ॥
श्री-भागवत-गूढार्थ-प्रकाशन-परायणः ।
साकार-ब्रह्म-वादैक-स्थापकः वेद-पारगः ॥ ८ ॥
श्रीभागवत गूढार्थ प्रकाशन परायणः ।
साकार ब्रह्मवादैकस्थापको वेदपारगः ॥ ८ ॥
मायावाद-निराकार्ता सर्व-वाडि-निरास-कृत् ।
भक्ति-मार्ग-अब्ज-मार्तण्डः स्त्री-शूद्र-आद्य-उद्धृति-क्षमः ॥ ९ ॥
मायावादनिराकर्ता सर्ववादिनिरासकृत् ।
भक्तिमार्गाब्जमार्तण्डः त्रीशूद्राद्युद्धृतिक्षमः ॥ ९ ॥
अङ्गीकृत्य-एव गोपीश-वल्लभि-कृत-मानवः ।
अङ्गीकृतौ समर्यादो महा-कारुणिको विभुः ॥ १० ॥
अंगीकृत्यैव गोपीशवल्लभीकृतमानवः ।
अंगीकृतौ समर्यादो महाकारुणिको विभुः ॥ १० ॥
अदेय-दान-दक्षः-च महोदार-चरित्र-वान् ।
प्राकृत-अनुकृति-व्याज-मोहित-असुर-मानुषः ॥ ११ ॥
अदेयदानदक्षश्च महोदारचरित्रवान् ।
प्राकृतानुकरणव्या मोहितासुर मानुषः ॥ ११ ॥
वैश्वानरो वल्लभाख्यः सद्रूपो हितकृत्सताम् ।
जनशिक्षा-कृते कृष्ण-भक्तिकृत् निखिलेष्टदः ॥ १२ ॥
वैश्वानरो वल्लभाख्यः सद्रूपो हितकृत्सताम् ।
जनशिक्षाकृते कृष्णभक्तिकृद् निखिलेष्टदः ॥ १२ ॥
सर्व-लक्षण-सम्पन्नः श्री-कृष्ण-ज्ञान-दानः गुरुः ।
स्वानन्द-तुण्डिलः पद्म-दलायत-विलोचनः ॥ १३ ॥
सर्वलक्षणसम्पन्नः श्रीकृष्णज्ञानदो गुरुः ।
स्वानन्दतुण्डिलः पद्मदलायतविलोचनः ॥ १३ ॥
कृपा-दृग्-ऊर्ष्टि-संहृष्टः दास-दासी-प्रियः पतिः ।
रोष-दृक्-पात-संप्लुष्टः भक्त-द्विट् भक्त-सेवितः ॥ १४ ॥
कृपादृग्वृष्टि संहृष्टः दासदासीप्रियः पतिः ।
रोषदृक्पातसंप्लुष्टः भक्तद्विट् भक्तसेवितः ॥ १४ ॥
सुख-सेव्यो दुराराध्यो दुर्लभ-अङ्घ्रि-सरोरुहः ।
उग्र-प्रतापो वाक्-सिधु-पूरीत-अशेष-सेवकः ॥ १५ ॥
सुखसेव्यो दुराराध्यो दुर्लभांघ्रिसरोरुहः ।
उग्रप्रतापो वाक्सीधुपूरिताशेष सेवकः ॥ १५ ॥
श्री-भागवत-पीयूष-समुद्र-मथन-क्षमः ।
तत्-सार-भूत-रास-स्त्री-भाव-पूर्ण-विग्रहः ॥ १६ ॥
श्रीभागवतपीयूष समुद्र मथनक्षमः ।
तत्सार भूतरासस्त्रीभावपूरितविग्रहः ॥ १६ ॥
सान्निध्य-मात्र-दत्त श्री-कृष्ण-प्रेम विमुक्ति-दः ।
रास-लील-एक-तात्पर्यः कृपया-एतत्-कथा-प्रदः ॥ १७ ॥
सान्निध्यमात्रदत्त श्रीकृष्णप्रेमा विमुक्तिदः ।
रासलीलैकतात्पर्यः कृपयैतत्कथाप्रदः ॥ १७ ॥
विरहानुभव-एक-अर्थ सर्व-त्याग-उपदेशकः ।
भक्ति-आचार-उपदेदेष्टा च कर्म-मार्ग-प्रवर्तकः ॥ १८ ॥
विरहानुभवैकार्थ सर्वत्यागोपदेशकः ।
भक्त्याचारोपदेष्टा च कर्ममार्गप्रवर्तकः ॥ १८ ॥
यागादौ भक्ति-मार्गेक साधन-त्व-उपदेशकः ।
पूर्णानन्दः पूर्णकामो वाक्-पतिः विभुध-ईश्वरः ॥ १९ ॥
यागादौ भक्तिमार्गेक साधनत्वोपदेशकः ।
पूर्णानंदः पूर्णकामो वाक्पतिर्विबुधेश्वरः ॥ १९ ॥
कृष्ण-नाम-सहस्रस्य-वक्ता भक्त-परायणः ।
भक्ति-आचार-उपदेशार्थ नाना-वाक्य-निरूपकः ॥ २० ॥
कृष्णनाम सहस्रस्यवक्ता भक्तपरायणः ।
भक्त्याचारोपदेशार्थ नानावाक्य निरूपकः ॥ २० ॥
स्व-अर्थ-उज्ज्हित-अखिल प्राण-प्रियः तादृश वेष्ठितः ।
स्व-दास-अर्थ-कृत-अशेष साधनः सर्व-शक्ति-धृक् ॥ २१ ॥
स्वार्थोज्झिताखिल प्राणप्रियस्तादृश वेष्टितः ।
स्वदासार्थकृताशेष साधनः सर्वशक्तिधृक् ।।२१।।
भुवि भक्ति-प्रचार-एक-कृते स्व-अन्वय-कृत-पिता ।
स्व-वंशे स्थापित-अशेष स्व-माहात्म्यः स्मय-अपहः ॥ २२ ॥
भुवि भक्ति प्रचारैककृते स्वान्वयकृत्पिता ।
स्ववंशे स्थापिताशेष स्वमाहात्म्यः स्मयापहः ॥ २२ ॥
पतिव्रता-पतिः पार-लौकिक-ऐहिक-दान-कृत् ।
निगूढ-हृदयः अनन्य-भक्तेषु ज्ञापित-आशयः ॥ २३ ॥
पतिव्रतापतिः पारलौकिकैहिकदानकृत् ।
निगूढह्रदयोऽनन्यभक्तेषु ज्ञापिताशयः ॥ २३ ॥
उपासनादि-मार्ग-अति-मुग्ध मोहन-निवारकः ।
भक्ति-मार्गे सर्व-मार्ग वैलक्षण्य-अनुभूति-कृत् ॥ २४ ॥
उपासनादिमार्गातिमुग्ध मोहनिवारकः ।
भक्तिमार्गे सर्वमार्ग वैलक्षण्यानुभूतिकृत् ॥ २४ ॥
पृथक्-शरण-मार्ग-उपदेश्टा श्री-कृष्ण-हार्द-वित् ।
प्रति-क्षण-निकुञ्ज-स्थ लीला-रस-सुपूरितः ॥ २५ ॥
पृथक्शरण मार्गोपदेष्टा श्रीकृष्णहार्दवित् ।
प्रतिक्षणनिकुञ्जस्थ लीलारस सुपूरितः ॥ २५ ॥
तत्-कथा-आकृष्ट-चित्तः तत्-विस्मृत-अन्यः व्रज-प्रियः ।
प्रिय-व्रज-स्थितिः पुष्टि-लीला-कर्ता रहः-प्रियः ॥ २६ ॥
तत्कथाक्षिप्त चित्तस्तद्विस्मृतान्यो व्रजप्रियः ।
प्रियव्रजस्थितिः पुष्टिलीलाकर्ता रहः प्रियः ॥ २६ ॥
भक्तेच्छा-पूर्णः सर्व-अज्ञात लीला: अति-मोहनः ।
सर्व-आसक्तः भक्त-मात्र-आसक्तः पतित-पावनः ॥ २७ ॥
भक्तेच्छापूरकः सर्वाज्ञात लीलोऽतिमोहनः ।
सर्वासक्तो भक्तमात्रासक्तः पतितपावनः ॥ २७ ॥
स्व-यशो-गान-संहृष्ट हृदय-अम्भोज-विस्तरः ।
यशः पीयूष-लहरी प्लावित-अन्य-रसः परः ॥ २८ ॥
स्वयशोगान सन्हृष्ट हृदयाम्भोजविष्टरः ।
यशः पीयूषलहरी प्लावितान्यरसः परः ॥ २८ ॥
लीला-अमृत-रस-आर्द्र-आर्द्र-इकृत-अखिल शरीर-भृत् ।
गोवर्धन-स्थिति-उत्साहः तत्-लीला-प्रेम-पूर्णः ॥ २९ ॥
लीलामृत रसार्द्रार्द्रीकृताखिल शरीरभृत् ।
गोवर्धन स्थित्युत्साहस्तल्लीला प्रेमपूरितः ॥ २९ ॥
यज्ञ-भोक्ता यज्ञ-कर्ता चतुर्-वर्ग-विशारदः ।
सत्य-प्रतिज्ञः त्रि-गुण-अतीतः नय-विशारदः ॥ ३० ॥
यज्ञभोक्ता यज्ञकर्ता चतुर्वर्गविशारदः ।
सत्यप्रतिज्ञास्त्रिगुणातीतो नयविशारदः ॥ ३० ॥
स्व-कीर्ति-वर्धनः तत्त्व-सूत्र-भाष्य-प्रदर्शकः ।
माया-वाद-आख्यतूल-अग्निः ब्रह्म-वद-निरूपकः ॥ ३१ ॥
स्वकीर्तिवर्धनस्तत्त्वसूत्रभाष्यप्रदर्शकः ।
मायावादाख्यतूलाग्निर्ब्रह्मवादनिरूपकः ॥ ३१ ॥
अप्राकृत-अखिल-आकल्प-भूषितः सहज-स्मितः ।
त्रि-लोकी-भूषणं भूमि-भाग्यं सहज-सुन्दरः ॥ ३२ ॥
अप्राकृताखिलाकल्प भूषितः सहजस्मितः ।
त्रिलोकीभूषणं भूमिभाग्यं सहजसुन्दरः ॥ ३२ ॥
अशेष-भक्त-सम्प्रार्थ्य चरण-अब्ज-रज-उधनः ।
अशेष भक्तसम्प्रार्थ्य चरणाब्ज रजोधनः ।।
इत्य्-आनन्द-निधेः प्रोक्तं नाम्नाम् अष्टोत्तरं शतं ॥ ३३ ॥
इत्यानन्दनिधेः प्रोक्तं नाम्नामष्टोत्तरं शतम् ।।३३।।
श्रद्धा-विशुद्ध-बुद्धिः यः पठति अनुदिनं जनः ।
सः तद्-एक-मनाः सिद्धि-मुक्तां प्राप्नोति असंशयम् ॥ ३४ ॥
श्रद्धाविशुद्ध बुद्धिर्यः पठत्यनुदिनं जनः ।
स तदेकमनाः सिद्धिमुक्तां प्राप्नोत्यसंशयम् ॥ ३४ ॥
श्रीगुसांईजी यहां प्रतिज्ञा करते हैं कि जो भक्त श्रीआचार्यजी महाप्रभु में श्रद्धा और शुद्धता बनाए रखते हैं, वे दु:संग आदि से बचकर अपनी बुद्धि को भगवदीय बना सकते हैं। ऐसे भक्त यदि श्रीआचार्यजी के पाठ को निरंतर करते हैं, तो पहले वे एकाग्रता प्राप्त करते हैं और फिर श्रीठाकुरजी के अधरामृत के आनंदस्वादन को प्राप्त करते हैं। यह सर्वोत्तम पाठ के फल के रूप में प्रकट होता है, इसमें कोई संदेह नहीं है।
तद्-अप्राप्तौ वृथा मोक्षस् तद्-आप्तौ तद्-गत-अर्थता ।
अतः सर्व-उत्तमं स्तोत्रं जप्यं कृष्ण-रस-अर्थिभिः ॥ ३५ ॥
तदप्राप्तौ वृथा मोक्षस्तदाप्तौ तद्गतार्थता ।
अतः सर्वोत्तमं स्तोत्रं जप्यं कृष्णरसार्थिभिः ॥ ३५ ॥